|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.45. अध्यायः 045
Mahabharata - Shanti Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति धर्मश्रवणाय भीष्मसमीपगमनचोदना॥ 1॥ तथा युधिष्ठिरप्रार्थनया स्वस्यापि तत्र गमनायदारुकेण रथसंयोजनम्॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-45-0x(5431)(66420)
किमिदं परमाश्चर्यं ध्यायस्यमितविक्रम।
कच्चिल्लोकत्रयस्यास्य स्वस्ति लोकपरायण॥ 12-45-1(66421)
`इन्द्रियाणि मनश्चैव बुद्धौ संवेशितानि ते'।
चतुर्थं ध्यानमार्गं त्वमालम्ब्य पुरुषर्षभ।
अपक्रान्तो यतो जीवस्तेन मे विस्मितं मनः॥ 12-45-2(66422)
निगृहीतो हि वायुस्ते पञ्चकर्मा शरीरगः।
इन्द्रियाणि च सर्वाणि मनसि स्थापितानि ते॥ 12-45-3(66423)
वाक्च सत्वं च गोविन्द बुद्धौ संवेशितानि ते।
सर्वे चैव गुणा देवाः क्षेत्रज्ञे ते निवेशिताः॥ 12-45-4(66424)
नेङ्गन्ति तव रोमाणि स्थिरा बुद्धिस्तथा मनः।
काष्ठकुड्यशिलाभूतो निरीहश्चासि माधव॥ 12-45-5(66425)
यथा दीपो निवातस्थो निरिङ्गो ज्वलतेऽच्युत।
तथाऽसि भगवन्देन निश्चलो योगनिश्चयात्॥ 12-45-6(66426)
यदि श्रोतुमिहार्हामि न रहस्यं च ते यदि।
छिन्धि मे संशयं देव प्रपन्नायाभियाचते॥ 12-45-7(66427)
त्वं हि कर्ता विकर्ता च त्वं क्षरश्चाक्षरश्च ह।
अनादिनिधनो ह्याद्यस्त्वमेकः पुरुषोत्तम॥ 12-45-8(66428)
त्वं प्रपन्नाय भक्ताय शिरसा प्रणताय च।
ध्यानस्यास्य यथातत्त्वं ब्रूहि धर्मभृतां वर॥ 12-45-9(66429)
ततः स्वगोचरे न्यस्य मनोबुद्धीन्द्रियाणि च।
स्मितपूर्वमुवाचेदं भगवान्वासवानुजः॥ 12-45-10(66430)
वासुदेव उवाच। 12-45-11x(5432)
शरतल्पगतो भीष्मः शाम्यन्निव हुताशनः।
मां ध्याति पुरुषव्याघ्रस्ततो मे तद्गतं मनः॥ 12-45-11(66431)
यस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः।
न सहेद्देवराजोऽपि तमस्मि मनसा गतः॥ 12-45-12(66432)
येनाभिजित्य तरसा समस्तं राजमण्डलम्।
ऊढास्तिस्रः पुरा कन्यास्तमस्मि मनसा गतः॥ 12-45-13(66433)
त्रयोविंशतिरात्रं यो योधयामास भार्गवम्।
न च रामेण निस्तीर्णस्तमस्मि मनसा गतः॥ 12-45-14(66434)
यं गङ्गा गर्भविधिना धारयामास भारतम्।
वसिष्ठशिष्यं तं तात गतोऽस्मि मनसा नृप॥ 12-45-15(66435)
दिव्यास्राणि महातेजा यो धारयति बुद्धिमान्।
साङ्गांश्च चतुरो वेदांस्तमस्मि मनसा गतः॥ 12-45-16(66436)
रामस्य दयितं शिष्यं जामदग्न्यस्य पाण्डव।
आधारं सर्व्रविद्यानां तमस्मि मनसा गतः॥ 12-45-17(66437)
`एकीकृत्येन्द्रियग्रामं मनः संयम्य मेधया।
शरणं मामुपागच्छत्ततो मे तद्गतं मनः॥ ' 12-45-18(66438)
स हि भूतं भविष्यच्च भवच्च भरतर्षभ।
वेत्ति धर्मविदां श्रेष्ठस्तमस्मि मनसा गतः॥ 12-45-19(66439)
तस्मिन्हि पुरुषव्याघ्रे शान्ते भीष्मे महात्मनि।
भविष्यति मही पार्थ नष्टचन्द्रेव शर्वरी॥ 12-45-20(66440)
तद्युधिष्ठिर गाङ्गेयं भीष्मं भीमपराक्रमम्।
अभिगम्योपसंगृह्य पृच्छ यत्ते मनोगतम्॥ 12-45-21(66441)
चातुर्विद्यं चातुर्होत्रं चातुराश्रम्यमेव च।
राजधर्मांश्चि निखिलान्पृच्छैनं पृथिवीपते॥ 12-45-22(66442)
तस्मिन्नस्तमिते भीष्मे कौरवाणां धुंरधरे।
ज्ञानान्यल्पीभविष्यन्ति तस्मात्त्वां चोदयाम्यहम्॥ 12-45-23(66443)
तच्छ्रुत्वा वासुदेवस्य तथ्यं वचनमुत्तमम्।
साश्रुकण्ठः स धर्मज्ञो जनार्दनमुवाच ह॥ 12-45-24(66444)
यद्भवानाह भीष्मस्य प्रभावं प्रति माधव।
तथा तन्नात्र संदेहो विद्यते मम माधव॥ 12-45-25(66445)
महाभाग्यं च भीष्मस्य प्रभावश्च महाद्युते।
श्रुतं मया कथयतां ब्राह्मणानां महात्मनाम्॥ 12-45-26(66446)
भवांश्च कर्ता लोकानां यद्ब्रवीत्यरिसूदन।
तथा तद्रनभिध्येयं वाक्यं यादवनन्दन॥ 12-45-27(66447)
यदि त्वनुग्रहवती बुद्धिस्ते मयि माधव।
त्वामग्रतः पुरस्कृत्य भीष्मं यास्यामहे वयम्॥ 12-45-28(66448)
आवृत्ते भगवत्यर्के स हि लोकान्गमिष्यति।
त्वद्दर्शनं महाबाहो तस्मादर्हति कौरवः॥ 12-45-29(66449)
तव ह्याद्यस्य देवस्य क्षरस्यैवाक्षरस्य च।
दर्शनं त्वस्य लाभः स्यात्त्वं हि ब्रह्ममयो निधिः॥ 12-45-30(66450)
वैशम्पायन उवाच। 12-45-31x(5433)
श्रुत्वैवं धर्मराजस्य वचनं मधुसूदनः।
पार्श्वस्थं सात्यकिं प्राह रथो मे युज्यतामिति॥ 12-45-31(66451)
सात्यकिस्त्वाशु निष्क्रम्य केशवस्य समीपतः।
दारुकं प्राह कृष्णस्य युज्यतां रथ इत्युत॥ 12-45-32(66452)
स सात्यकेराशु वचो निशम्य
रथोत्तमं काञ्चनभूषिताङ्गम्।
मसारगल्वर्कमयैर्विभङ्गै
र्विभूषितं हेमनिबद्धचक्रम्॥ 12-45-33(66453)
दिवाकरांशुप्रभमाशुगामिनं
विचित्रनानामणिभूषितान्तरम्।
नवोदितं सूर्यमिव प्रतापिनं
विचित्रतार्क्ष्यध्वजिनं पताकिनम्॥ 12-45-34(66454)
सुग्रीवशैब्यप्रप्नुखैर्वराश्वै
र्मनोजवैः काञ्चनभूषिताङ्गैः।
संयुक्तमावेदयदच्युताय
कृताञ्जलिर्दारुको राजसिंह॥ ॥ 12-45-35(66455)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि प्रञ्चचत्वारिंशोऽध्यायः॥ 45॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-45-2 चतुर्थं जाग्रत्स्वप्नसुषुप्तिभ्यः परम्। अपक्रान्तो यतो देव इति झ. पाठः॥ 12-45-3 पञ्चकर्मा प्राणनादिकारी॥ 12-45-4 सत्वं मनः। वागुपलक्षितानीन्द्रियाणि च बुद्धौ महत्तत्त्वे। गुणाः शब्दादिगुणभाजो देवाः श्रोत्रादीनि इन्द्रियाणि॥ 12-45-5 नेङ्गन्ति न कम्पन्ते। निरीहो निश्चेष्टः॥ 12-45-6 निरिङ्गः अचलः॥ 12-45-10 गोचरे स्वस्वस्थाने॥ 12-45-11 ध्याति ध्यायति॥ 12-45-22 चतस्रो विद्याः धर्मार्थकाममोक्षविद्याः सर्ववर्णसाधारणाः चातुर्होत्रं त्रैवर्णिकानां विशेषधर्मो यज्ञादिः॥ 12-45-27 अनभिध्येयं अविचारणीयम्॥ 12-45-33 मसारगल्वर्कमयैर्विभङ्गैः मसारो मरकतमणिः गलुश्चन्द्रकान्तः अर्कः सूर्यकान्तः तन्मयैः विभङ्गैः विस्तरैः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|